________________
१८४
चिकित्साकलिका। शरदि ग्रीष्मकाले वारवितापाढ्ये गुरु कृष्णं स्निग्धं निःशर्करंगोमूत्र. गन्धगुणेन युक्तं शिलाजतु श्रेष्ठं ज्ञातव्यम् । तथा च सुश्रुतः-"तेषु यत्कृष्णमलघु स्निग्धं निःशर्करं च यत् । गोमूत्रगन्धं यच्चापि तत्प्रधानं प्रचक्षते।"तदनु-"लोहाढकीनिम्बगुडूचिसर्पिर्यवैः यथावत्परिधूपयेच्च । दुष्टौषधाकीटपतङ्गदंशसंतानिकादोषनिवारणार्थम् । एतत् द्रव्यधूपयेत् । संतानिकादीन् दोषान् नाशयति । अतोऽनन्तरं जलशुद्धं कृत्वा ततः क्वाथैर्भावयेत् । तथा च ग्रन्थान्तरे-“प्राक् केवले जले धौतं शुष्क क्वाथैस्ततो भाव्यमिति” । जलशुद्धिविधानं तु ग्रन्थान्तरोक्तं लिख्यते"उष्णेऽथ काले रवितापयुक्त व्यभ्रे निवाते समभूमिभागे। चत्वारि पात्राण्यसितायसानि न्यस्यातपे दत्तमनोऽवधानः ॥ शिलाजतु श्रेष्ठमथैकपात्रे प्रक्षिप्य तस्माद् द्विगुणं च तोयम् । उष्णं तदर्द्ध शृतमत्र दत्त्वा विशोधयेत् तन्मृदितं यथावत् ॥ ततश्च यत्कृष्णमुपैति चोर्ध्व विलीय. मानं रविरश्मितप्तम् । पात्रात् तदन्यत्र ततो निदध्यात् तत्रापरं कोष्ण जलं क्षिपेच्च ॥ पुनश्च तस्मादपरत्र पात्रे तस्माच्च पात्रादपरत्र भूयः । पुनस्ततोऽन्यत्र विधाय कृष्णं यत्संहतं तत्पुनराहरेच्च ॥ यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् । तदा त्यजेत्तत्सलिलं मलञ्च शिलाजतु स्याजलशुद्धमेवम् ॥ शुद्धं भावितयुक्तं च विधिनानेन मानवः । शिलाजतु प्रयुञ्जानः सर्वरोगैः प्रमुच्यते” इति ॥ एवं श्रेष्ठ धूपितं गतदोषं जलशुद्धं च कृत्वा ततः क्वाथैर्भावनामारभेत् त्रीन् वारानित्यादि । प्रथममेव शिलाजतु त्रैफले जले भाव्यं भवेत् त्रीन् वारान् त्रीण्यहोरात्राणि । तत्रायं वारशब्दोऽहोरात्रवाचकः यतो वारेणेत्यादिना अहोरात्रं व्याप्तं भवति । एकेन अहोरात्रेण एका भावना भवति, द्वितीयेन द्वितीया, तृतीयेन तृतीया। एवं त्रीन् वारान् इति । तथा च चरकः- "कौटजत्रिफलानिम्बपटोलघननागरैः। भावितानि दशाहानि' दशाहोरात्राणीत्यर्थः। त्रिफलाया संस्कृतं त्रैफलं जलं क्वाथः । कथं त्रिफलायाः क्वाथसंस्कारो भावनार्थ क्रियते ? शिलाजतुतुल्यं भावनाद्रव्यं जलमष्टगुणं दत्त्वा क्वथितं चतुर्भागावशेष पूतं कृत्वा तस्मिन् शिलाजतु सुखोष्णे प्रक्षिपेत्, क्षिप्त्वावलोड्य साधयेत् । तथा च क्षार
१-लोहमत्रागुरु ।