________________
१७४
चिकित्साकलिका। अधुना दाधिकं घृतमाह
रुग्यावशूकबिडदाडिमतिन्तडीकसिन्धूत्थहिङ्गुहुतभुक्सितकृष्णजीरैः । सग्रन्थिकैः सचविकारुचकाजमोदैव्योषाम्लवेतसयुतैरिति कल्कपिष्टैः ।। २५२ ॥ तद्वीजपूरकरसेन चतुर्गुणेन दना च दाधिकमिति प्रवदन्ति वैद्याः। हृत्पृष्ठकोष्ठगुदवङ्क्षणबस्तिशूल
मासि गुल्ममपहन्ति विशेषतश्च ॥ २५३ ॥ एतत् घृतं दध्ना संस्कृतं दाधिकमिति प्रवदन्ति वैद्याः । एतत् रुगादिभिः कल्कपिष्टैः साध्यते । रुगादीनामितरेतरद्वन्द्वः । रुक् कुष्टम् । यावशूको यवक्षारः । तिन्तिडीकं वृक्षाम्लम् । सिन्धूत्थं सैन्धवम् । हुतभुक् चित्रकम् । सितकृष्णजीरके प्रसिद्ध । तैः सग्रन्थिकैः सपिप्पलीमूलैः । सचविकादिभिः । चविका चव्या । रुचकं सौवर्चलम् । व्योषाम्लवेतसाभ्यां युतैः संयुक्त रुगादिभिः । व्योषं त्रिकटु । शेषाणि प्रसिद्धानि । इत्येभिर्द्रव्यैः कार्षिकैः कल्कपिष्टः बीजपूरकरसेन दनाच चतुगुणेन घृतात् द्वात्रिंशत्पलानि साध्यानि । तदाधिकं घृतं हृदादिशूलान्यासि चोपहरति । गुल्मं च विशेषादिति ॥ २५२-२५३ ॥
दाधिकघृत-गव्यघृत २ प्रस्थ । बिजौरे का रस ८ प्रस्थ । दही ८ प्रस्थ । कल्कार्थ-कुष्ट, यवक्षार, बिडनमक, अनारदाना, तिन्तिडीक (वृक्षाम्ल, विषांबिल), सैन्धानमक, हींग, चित्रक, श्वेतजीरा, पिप्पलीमूल, चन्य, सौंचलनमक, अजमोदा, त्रिकटु, अम्लवेतस; प्रत्येक २ तोले। यथाविधि घृतपाक करें। मात्रा-आधा तोला। यह घृत हृदय, पीठ, कोष्ट, गुदा, वङ्क्षण एवं वस्ति स्थित शूल तथा अर्श को विशेषतः गुल्म को नष्ट करता है ॥ २५२-२५३ ॥ अधुना सप्तविंशकं गुग्गुलुमाह
क्षारद्वयं त्रिकटुकं त्रिफला हरिद्रा
युग्दारुमुस्तलवणत्रयतुम्बुरूणि । १-चक्रदत्तोक्तं तु दाधिकं घृतमस्मात्पृथगेव स्वीकर्त्तव्यम् ।