________________
१७२
१७२
चिकित्साकलिका।
अथ शूलचिकित्सा। अथ हिक्काचिकित्सानन्तरं यथोद्देशं शूलचिकित्सितं व्रते
विश्वौषधेन रुचकेन सदाडिमेन स्यादम्लवेतसयुतं कृतहिगुभागम् । तद्धिगुपञ्चकमिदं हृदयामयनं
भेलाभिधानमुनिना गदितं मुनीनाम् ॥ २४८ ॥ इदं तत् हिंगुपञ्चकं यद् भेलाभिधानेन मुनिना मुनीनां अन्येषां मुनीनां गदितं कथितम् । हृदयामयनं हृदये आमया रोगाः शूलादयो हृदयामयाः तान् हन्तीति हृदयामयघ्नम् । विश्वौषधेन शुण्ठ्या । रुचकेन सौवर्चलेन । सदाडिमेन रुचकेन स्यात् भवेत् । अम्लवेतसयुतं योजितम् । कृतहिंगुभागं कृतः संपादितो हिंगुभागो यस्मिन् तत्तथा । इदं तत् हिंगुपञ्चकं चूर्णमिति ।
हिगुपञ्चक-सोंठ, कालानमक, अनारदाना, अम्लवेतस तथा हींग, इनके चूर्णो को समभाग में मिश्रित करें। मात्रा-२ रत्ती । इसके सेवन से हृच्छूल (अर्थात् मलवात के कारण हृदयस्थल पर शूल होना) नष्ट होता है । भेल मुनि ने इस योग का अन्य मुनियों को उपदेश दिया था ॥ २४८ ॥ हिङ्गपश्चकानन्तरं हिङ्ग्वष्टकमवोचत
व्योषाजमोदयुतजीरकयुग्मसिन्धुचूर्ण सरामठविभागमिति प्रयुक्तम् । हिङ्ग्वष्टकं हरति हजठरान्तराल
शूलानि गुल्मगुदजग्रहणीविकारान् ।। २४६ ।। व्योषादिचूर्ण हिन्वष्टकम् । व्योषं च अजमोदेन युतं यजीरकयुग्मं तञ्च सिन्धुश्च एषां चूर्णम् । व्योषं त्रिकटुकम् । अजमोदा प्रसिद्धा। जीरकयुग्मं जीरकद्वयम् । सिन्धु सैन्धवम् । सह रामठविभागेन यत् वर्त्तत इति तच्चूर्ण तथा । रामठं हिंगु । इत्यनेन क्रमेण प्रयुक्तमुपयुक्तं हिङ्ग्वष्टकं हिंगुसहितमष्टकं हरति हृजठरान्तरालशूलानि । हृजठरं हजठरे तयोरन्तरालं कोष्ठम् तस्मिन् शूलानि गुल्मादींश्च हरतीति ॥२४९॥
हिंग्वष्टकचूर्ण-पिप्पली, काली मिर्च, सोंठ, अजमोदा, जीरा, कालाजीरा, सैंधा