________________
१५०
चिकित्साकलिका। अयस्तुला गोमयपावकेन संसाध्यते सिध्यति चात्र देयम् । अयःसमं मागधिकादिवर्गचूर्ण घृतं क्षौद्रमतो द्विभागम् ॥२०४॥ इत्यामयैरप्रतिवार्यवीर्या सैषौषधायस्कृतिरुक्तमात्रा । प्रयुक्तया प्रत्यहमायुषश्च बुद्धेर्धियश्चापि भवेद्विवृद्धिः ॥ २०५॥
न चानया स्थौल्यमपि प्रमेहः क्षयश्च कुष्ठानि नृणां न सन्ति । न पाण्डुता श्लीपदरुङ् न च स्यादुर्वोन च स्तम्भरुजः कदाचित् ॥ २०६ ॥
अमीभिस्तिल्वकादिभिद्रव्यैरुदकार्मणद्वितयमेकशः पाचयेत्। सह तिल्वकेन वर्तत इति सतिल्वकः । सतिल्वकाश्चासौ विभीतकश्च सतिल्वकविभीतकः । स च आमलकं च सप्तला च शहिनी च पलाशतरुश्च शिंशपाच तास्तथा । एतत्प्रभृतिभिरेवं प्रकारैः । पृथक् प्रास्थिकैः प्रत्येकं प्रस्थप्रमाणैः। त्रिवृतादियुक्तैः । तैः संयुक्तस्तिल्वकादिभिः । तिल्वकः पट्टिकालोध्रः। सप्तला यवतिक्तका । शहिनी कम्बुपुष्पी। स्थविरदारुकं वृद्धदारुकम्।ज्वलनमन्थोऽग्निमन्थः । शेषाणि प्रसिद्धानि। अमीभिरनन्तरोक्तैरेकशः एकीकृत्य उदकार्मणद्वितयं पानीयद्रोणद्वयं पाचयेत् । पुनरनन्तरं तत्र तस्मिन् उत्तीर्णे उत्तारिते शृतचरणशेषौषधिजले । औषधादिभिः संस्कृतं जलमौषधिजलम् । शृतं चरणशेषं चतुर्थाशशेषं यदौषधिजलं तच्छृतचरणशेषोषधिजलं तस्मिन् । पलाशद्रोण्यन्तःस्थितवति । पलाशद्रोणी पलाशकाष्ठमयी द्रोणी तस्या अन्तर्मध्यं तस्मिन् क्वाथे स्थितवति । अयःपिण्डं लोहपिण्डं तप्त्वा कैः ? तरुणखदिराङ्गारनिकरैर्निर्वाप्य बहुशः एकविंशतिवारान् । अयसि च विलीने विलयं गते घनतमे अतिशयेन घने सति पुन स्तत्कषायमद्भतलोहमन्यस्मिन् लोहपात्रे साध्यते चतुर्भागावशेष यावत् । कियत्प्रमाणमयः संसाध्यते ? अयस्तुला लोहपलशतम् । केन? गोमयपावकेन गोमयाग्निना । सिध्यति चात्र देयं दातव्यं मागधिकादिवर्गात् पिप्पल्यादिगणात् चूर्णमयःप्रमाणं लोहसमं पलशतप्रमाणामत्यर्थः । अतः अस्मान्मागधिकादिचूर्णात् घृतं क्षौद्रं च मधु