________________
चिकित्साकलिका। २ रत्ती चूर्ण का प्रक्षेप देकर पीने से शोथ तथा अत्यन्त वेदनायुक्त, विस्तृत एवं अपक आभ्यन्तर विद्रधि नष्ट होती है ॥ १८०॥ अधुना त्रिफलागुग्गुलुं त्रिफलाघृतश्चाह
पक्केषु विद्रधिषु पूयमतिस्रवत्सु नाडीषु च वणिषु चापि भगन्दरेषु । स्याद् गण्डमालिषु फलत्रिकगुग्गुलुश्च
पथ्यः फलत्रिकघृतं लघुभोजनश्च ॥ १८१ ॥ विद्रध्यादिषु फलत्रिकगुग्गुलुः पथ्यः स्यात् भवेत् । पक्केषु पार्क गतेषु पूयमतिस्रवत्सु नाडीषु च भगन्दरेषु सर्वेषु फलत्रिकगुग्गुलुः पथ्यः स्यात् । फलत्रिकघृतं त्रिफलाघृतं च । लघुभोजनश्च पुराणषष्टिकरक्तशालिकलमयवमुद्गजाङ्गलमांसवास्तुकपटोलकासमईदाडिमामलकगव्यघृतसैन्धवसंस्कृतं पथ्यं स्यादिति सर्वप्रकारेण ॥ १८१ ॥
पक्क तथा अतिपूयस्रावयुक्त विद्रधि, नाडीव्रण, व्रण, भगन्दर, तथा गण्डमाला में त्रिफलागुग्गुलु, त्रिफलाघृत तथा लघु भोजन हितकर है ॥ १८ ॥
पूर्व त्रिफलागुग्गुलुर्विद्रध्यादिषु पथ्यः स्यादित्युक्तमतस्तस्योपदेशमाह
त्रीणि पलानि फलत्रितयस्य द्वे तु पले तुलिते मगधायाः। पश्च पलानि भवन्ति पुरस्य
स्यात्स फलत्रिकगुग्गुलुयोगः ॥ १८२ ॥ फलत्रिकगुग्गुलुयोगः फलत्रिकगुग्गुलुः स स्यात् । योऽनेन विधिना कल्प्यते—त्रीणि पलानि फलत्रितयस्य, त्रीणि पलानि त्रिफलायाः। द्वे च पले तुलिते मगधायाः। मगधायाः पिप्पल्या द्वे पले तुलाधृते । पञ्च पलानि भवन्ति पुरस्य, गुग्गुलोः पञ्चपलानि भवन्ति । अनेन विधिना कल्पितत्रिफलागुग्गुलुः पूर्वोक्तेषु विद्रध्यादिष्वभिहितो भवेदिति ॥ १८२॥
इति विद्रधिचिकित्सा समाप्ता। त्रिफलागुग्गुलु-त्रिफला (मिलित)-३ पल, पिप्पली २ पल, विशुद्ध गुग्गुलु