________________
१३०
चिकित्साकलिका। इदानीं चरकोक्तं पटोलाद्यं चूर्णमाह
पटोलमूलत्रिफलादलक्षपाविडङ्गबीजं समषद्कमेकतः। सनीलिनीबीजपिचुत्रयं त्रिवृत्पलश्च कम्पिल्लपलार्द्धयोजितम् ॥ १६७ ॥ . गवाम्बुपीतं सकलोदरापहं पलोन्मितं शोफहरञ्च कीर्तितम् । सकामलं पाण्डुगदं हलीमकं
हरेत्पटोलादि भिषभिरुच्यते ॥ १६८ ॥ भिषग्भिः पटोलादिचूर्णमुच्यते । पटोलमूलत्रिफलादलक्षपा. विडङ्गबीजम् । पटोलादीनां समाहारद्वन्द्वः । त्रिफलाया दलं त्रिफलादलम् । समषट्कं समानि कर्षप्रमाणानि षडेव यस्मिंस्तत्समषट्कम् । एकशः समस्तम् । सनीलिनीबीजपिचुत्रयम् । नीलिनी फलाक्षनिका शारदा तस्याः बीजानि । तेषां पिचुत्रयं कर्षत्रयम् । सह तेन त्रिवृत्पलं च कम्पिल्लपलार्द्धयोजितम् । कम्पिल्लं रोचनिका तस्याः पलार्द्धन योजितम् । समस्तं चूर्ण कृत्वा गवाम्बुपीतं गोमूत्रपीतं पलप्रमाणं सकलोदरापहं प्रकीर्तितं शोफहरं च । सकामलं कामलया सह वर्तते। पाण्डुरोगं हलीमकं च हरेत् । पटोलादि भिषभिरुच्यते। एतच्चूर्ण च विरेचनं स्निग्धेन पेयम् । पीतौषधश्च यदि मृदुविरिक्तो भवति तदा जाङ्गलमांसरसैरोदनं मृदु भोजयेत् । यदि सम्यग् विरिक्तोऽतिरिको वा तदा मण्डपूर्वी यवागू सेवेत । अनन्तरं क्षीरं त्रिकटुकनृतं पिबेत् । मृद्रोदनं तेनैव भोजयेत् षडहम् । सप्तमे दिवसे पुनश्चूर्ण पिबेत् । एवमनेन क्रमेण वारं वारं पिबेत् आरोग्यं यावत् । तथा च चरकमुनिः-“पटोलमूलं रजनी विडङ्गं त्रिफलात्वचम् । कम्पिल्लकं नीलिनी च त्रिवृतं चेति चूर्णयेत् । षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान् । कृत्वा चूर्ण ततो मुष्टिं गवां मूत्रेण पाययेत् । विरिक्तं जाङ्गलरसैरोदनं मृदु भोजयेत् । मण्डपेयाश्च पीत्वा वा सव्योषं षडहं पयः । शृतं पिबेत्ततश्चूर्ण पिवेदेवं पुनः पुनः ।