________________
१२६
चिकित्साकलिका |
अनिश्चित्रकः । विश्वं शुण्ठी । घनं मुस्तम् । निशा हरिद्रा । करिकणा हस्तिपिप्पली । मगधाजटा पिप्पलीमूलम् । जीरककण्टकारीपाठाः प्रसिद्धाः । एषां समानं चूर्ण कवोष्णसलिलैरुष्णोदकैरवलोड्यालोडनं कृत्वा पीतं नराणां परमस्मात्परमुत्कृष्टं श्वयथुरोगहरं नास्तीति ॥
कृष्णाद्य चूर्ण — पिप्पली, चित्रक, सोंठ, मोथा, श्वेतजीरा, छोटी कटेरी, पाढ़ हल्दी, गजपिप्पली, पिप्पलीमूल; इनके चूर्णौ को एकत्र समपरिमाण में मिला योग्यमात्रा में इस चूर्ण को कोसे जल में आलोडन कर सेवन कराना चाहिये । मात्रा - ४ रत्ती से ८ रत्ती तक | इसके सेवन से सर्वोग शोथ नष्ट होता है। शोध को नष्ट करने के लिये यह अत्यन्त उत्कृष्ट औषध है ॥ १६० ॥
अतः परं चरकोक्तां कंसहरीतकी माहक्वथनपलशतं युताष्टविंशं
गुडतुलया च सहाभयाशतेन । गुडवदिति पचेत् द्विपञ्चमूल्याः शृतमवतार्य ततः सुशीतले च ।। १६१ ॥ त्रिकटुकरजसा त्रिजातचूर्ण
सुरभि निधाय यवाग्रजं च किञ्चिद् । मृदुमधुकुडवद्वयेन सार्द्ध
श्वयथुहरश्वरकोदितोऽवलेहः ।। १६२ ।।
क्वथनपलशतम् । किं विशिष्टम् ? युताष्टविंशं युताष्टविंशतिर्यस्मिन् तद्युताष्टविंशं कंसद्वयमित्यर्थः । कस्याः ? द्विपञ्चमूल्याः । द्विपञ्चमूली दशमूली तस्याः पलशतं उदकद्रोणे विपाच्य चतुर्भागावशेषं कंसो भवति । ततः गुडतुलया गुडपलशतेन अभयाशतेन हरीतकीफलशतेन च सह पचेत् क्वाथं गुडवदिति । गुडपाकं पचेदित्यनेन लेहपाक आक्षिप्तः । शृतं पक्कमवतार्य ततोऽनन्तरं सुशीतले च अतिशयेन शीते । त्रिकटुकं शुण्ठीमरिचपिप्पल्यः । तस्य रजसा उपलक्षितं त्रिजातचूर्णम् त्रिजातं एलादलदारुसिताः । एषां चूर्णाष्टपलं सुरभि सुगन्धि निघाय दत्त्वा यवाग्रजं यवक्षारञ्च किञ्चित् । किञ्चिच्छब्दे नार्द्ध पलं जेजटाचार्येण चरके श्वयथुचिकित्सायां व्याख्यातम् । मृदुमधुकुडवद्वयेन सार्द्धं,