________________
ज्वरचिकित्सा |
८९
यस्य स षडङ्गः । षडङ्गश्चासौ गणश्च षडङ्गगणः । तस्य संगः प्रयुक्तता । तेन सुगन्धीनि तैः । लामजपर्यटकपद्मकचन्दनाब्दहीवेर वारिभिः । लामजमुशीरभेदः । पर्पटकं रेणुः । पद्मको मलयश्चारुः । चन्दनं रक्तचन्दनम् अब्दं मुस्तम् । ह्रीवेरं बालकम् । एभिः संस्कृतानि यानि वारीणि तैः अनुष्णतमैः । न उष्णानि अनुष्णानि । बहूनां मध्ये अतिशयेनानुष्णतमानि तैः अतिशयेन शीतैः । चिकित्सेदुपक्रमेत् । अत्र चोदकव्यवस्था सर्वेषां पलेना ढकमुदकस्य प्रक्वाथ्य अर्धावशेषं शीतं प्रयोज्यम् । तथा च तन्त्रान्तरम् —'यदप्सु श्रुतशीतासु षडङ्गादि प्रयुज्यते । कर्षमात्रं ततो दवा क्वाथयेत्प्रास्थिकेऽम्भसि ॥ अर्द्धश्टतं प्रयोक्तव्यं पाने पेयादिसंविधौ ॥' इति ॥ १०० ॥
यदि रोगी में तृषा ( प्यास) छर्दि (कै) दाह, मुखशोष आदि लक्षण विद्यमान हों तो लामज्जक (खवी ), पित्तपापड़ा, पद्माख, लालचन्दन, मोथा, गन्धबाला; इस षडंगगण द्वारा सिद्ध सुगन्धित शीत जल द्वारा उसकी चिकित्सा करें । इस सिद्ध करने का नियम यह है— कि क्वाथ्य द्रव्यों को समपरिमाण में एकत्र २ तोला लेकर २ प्रस्थ जल में सिद्ध करें। जब जल आधा शेष रह जाय तब उतार कर वस्त्र से छान लें। उपर्युक्त लक्षणों से युक्त रोगी को जब २ प्यास लगे तब २ यही षडंगपानीय दें ॥ १०० ॥
पूर्वमुकं अभोजनैश्चिकित्सेत् । तच्चाभोजनं कियन्तं कालं
यावदित्याह -
बलाविरोधेनकृतापतर्पण
स्ततो दिनस्यापगमे बुभुक्षितः । गतामदोषः पवनादिजज्वरी
विधिं विदध्यादिति पथ्यभेषजम् ॥ १०१ ॥
I
. वातादिजज्वरी विधिं विदध्यात् । कृतापतर्पणः, कृतं अपतर्पणं लङ्घनं येन स कृतापतर्पणः । केन प्रकारेण ? बलाविरोधेन । बलं प्राणः । प्राणाविरोधेनानतिक्रमेण । तथा च चरकः - 'प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्' इति । ततोऽनन्तरं दिनस्य अपगमे दिवसे गते । बुभुक्षितः क्षुत्संयुक्तः सुलङ्घितः । गतामदोषः, गता आमा दोषाः यस्य स गतामदोषः । कोऽसौ ? पवनादिजज्वरी । इति विधिं विधानं वक्ष्यमाणं पथ्यं भोजनं भेषजमौषधं विदध्यात् कुर्यादिति ॥ १०१ ॥