________________
अचूसंधिः । तत्परे च * ॥ पुत्रपुत्रादिनी त्वमसि पापे ॥ वा हतजग्धयोः * ॥ पुत्रहती । पुत्रहती । पुत्रजग्धी । पुत्रजग्धी ॥ त्रिप्रभृतिषु शाकटायनस्य ।८।४।५०॥ व्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥ सर्वत्र शाकल्यस्य ।८।४।५१॥ द्वित्वं न । अर्कः । ब्रह्मा । दीर्घादाचार्याणाम् ।८।४।५२॥ द्वित्वं न । दात्रम् । पात्रम् । अचो रहाभ्यां द्वे ।८४।४६ ॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्यनुभवः । नास्ति ॥ हलो यमा यमि लोपः ।।४।६४ ॥ हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासंख्यविज्ञानान्नेह । माहात्म्यम् ॥ एचोऽयवायावः ।६।११७८ ॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥ तस्य लोपः ॥१॥२९॥ तस्येतो लोपः स्यात् । इति यवयोर्लोपो न उच्चारणसामर्थ्यात् । एवं चेत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ॥ वान्तो यि प्रत्यये ।६।१७९॥ यकारादौ प्रत्यये परे ओदौतोर आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यदिति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मेत्यादिना यत् ॥ गोयूतौ छन्दस्युपसंख्यानम् * ॥ अध्वपरिमाणे च * ॥ गव्यूतिः । ऊतियूतीत्यादिना यूतिशब्दो निपातितः॥ वान्त इत्यत्र वकाराद्गोयूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वलीति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥ धातोस्तन्निमित्तस्यैव ।।१।८० ॥ यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥क्षय्यजय्यौ शक्यार्थे ।६।१।८१॥ यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं जेतुं योग्यं क्षेयं पापं जेयं मनः ॥ क्रय्यस्तदर्थे ।६।११८२॥ तस्मै प्रकृत्यायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । केयमन्यत् । क्रयणाहमित्यर्थः ॥ लोप: शाकल्यस्य ।८।३।१९॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धमिति लोपशास्त्रस्यासिद्धत्वान्न खरसंधिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुकः ॥ कानि सन्ति कौ स्त इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्तेतिसूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥ एकः पूर्वपरयोः।६।१।८४ ॥ इत्यधिकृत्य ॥ आद्गुणः ।६।१८७॥ अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥ उरण रपरः । १॥१॥५१॥ ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात्कृष्णर्द्धिरित्यत्रार् । तवल्कार इत्यत्राऽल् । अचो रहाभ्यामिति पक्षे द्वित्वम् ॥
१स आदिनीशब्दो यस्मात्परस्तस्मिन्परेऽपि पुत्रशब्दस्य न द्वे स्त इत्यर्थः॥ २ यस्मिन्विधिस्तदादावल्. ग्रहणे ॥अलग्रहणे सप्तम्यन्ते विशेषणीभूते यो विधिर्विधीयते स तदादौ ज्ञेयः॥ तदन्तविधेरपवाद एवायम् ॥ ३ भाषायामपि ॥