________________
सिद्धान्तकौमुद्याम् झरो झरि सवर्णे ।।१।६५ ॥ हलः परस्य झरो लोपो वा स्यात्सवणे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णधिः । कृष्णर्द्धिः । कृष्णद्धिः ॥ यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य त्वनचि चेति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥ वृद्धिरेचि ।६।१।८८ ॥ आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् । एत्येधत्यूठ्सु ।६।८९॥ अवर्णादेजाधोरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भावान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिरेङि पररूपमित्यस्यैव बाधिका न त्वोमाङोश्चेत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ॥ अक्षादूहिन्यामुपसंख्यानम् * ॥ अक्षौहिणी सेना ॥ खादीरेरिणोः * ॥ खैरः । खेनेरितुं शीलमस्येति खैरी । खैरिणी । प्रादूहोढोढ्येषैष्येषु * ॥ प्रौहः । प्रौढः ॥ अर्थवद्हणे नानर्थकस्य ग्रहणम् ॥ "त्रैश्चेतिसूत्रे राजेः पृथग् प्राजिग्रहणाज्ज्ञापकात्" । तेन ऊढग्रहणेन तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः ॥ इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये त्र्यादिः । एषां घञि ण्यति च एषः एण्य इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ ऋते च तृतीयासमासे * ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः॥ प्रवत्सतरकम्बलवसनार्णदशानामृणे * ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यहणं क्रियते तहणार्णम् । दशार्णो । देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥ उपसर्गादति धातौ ।।१।९१ ॥ अवर्णान्तादुपसर्गाहकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्छति । उपार्च्छति ॥ अन्तादिवच ।६।१।८५ ॥ योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥ खरवसानयोर्विसर्जनीयः। ८।३।१५॥ खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्वा कर्तरि चर्षिदेवतयोरित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यक इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥ वा सुप्यापिशले ।।१।९२ ॥ अवर्णान्तादुपसर्गाहकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । ' प्रर्षभीयति । सावर्णात् लवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीषं न । उपऋकारीयति। उपर्कारीयति ॥ एङि पररूपम् ।६।१।९४ ॥ आदुपसर्गादेडादौ धातौ परे
१ पुरस्तादपवादा अनन्तरान् विधीन्बाधन्ते नोत्तरान् ॥ २ अत्र 'लिङ्गविशिष्टपरिभाषया खैरिणी' इति बहुत्र पाठो दृश्यते सोऽपपाठः। मनोरमाकारैरनूद्य खण्डितश्च तत्रालोचनीयः॥ ३ अयं पाठो मनोरमास्थः॥
H