SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ अथ गणपाठः। प्रथमोऽध्यायः। १६ सर्वादीनि सर्वनामानि ।१।१।२७ ॥ सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । खमज्ञातिधनाख्यायाम् । अन्तरं बहियोगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः॥१॥ ____४२ स्वरादिनिपातमव्ययम् ।१।१।३७ ॥ स्वर अन्तर् प्रातर् । अन्तोदात्ताः। पुनर् सनुतर उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आरात् [ अन्तिकात् ] पृथक् । आयुदात्ताः । ह्यस् श्वस् दिवा रात्रौ सायम् चिरम् मनाक् ईषत् [ शश्वत् ] जोषम् तूष्णीम् बहिस् [ अधस् ] अवस् समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [हे है ] इद्धा अद्धा सामि । अन्तोदात्ताः । वत् [५।१।११५] ब्राह्मणवत् क्षत्रियवत् सना सनत् सनात् उपधा तिरस् । आधुदात्ताः । अन्तरा । अन्तोदात्तः। अन्तरेण [ मक् ] ज्योक् [ योक् नक् ] कम् शम् सहसा [ श्रद्धा ] अलम् खधा वषट् विना नाना खस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिल्या वृथा मिथ्या । क्त्वातोऽसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् प्रायस् मुहुस् प्रवाहुकम् प्रवाहिका आर्यहलम् अभीक्ष्णम् साकम् सार्धम् [ सत्रा समम् ] नमस् हिरुक् तसिलादयस्तद्धिता एधाचपर्यन्ताः [५।३ । ७-४६] शस्तसी कृत्वसुच् सुच् आस्थालौ । च्व्यर्थाश्च अम् [अथ ] आम् प्रताम् प्रतान् प्रशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथाहि । माङ् श्रम् कामम् [प्रकामम् ] भूयस् परम् साक्षात् साचि ( सावि ) सत्यम् मंक्षु संवत् अवश्यम् सपदि प्रादुस् आविस् अनिशम् नित्यम् नित्यदा सदा अजस्रम् संततम् उषा ओम् भूर् भुवर झटिति तरसा सुष्टु कु अञ्जसा अ मिथु ( अमिथु) विथक् भाजङ् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् अस्तम् आनुषक् अनुषक् अनुषट् अन्नस् ( अम्भस् ) अम्नर् ( अम्भर् ) स्थाने वरम् दुष्ठु बलात् शु अर्वाक् शुदि वदि इत्यादि । तसिलादयः प्राक्पाशपः [६।३।३६] शस्प्रभृतयः प्राक्समासान्तेभ्यः [५।४।४३-६८] मान्तः कृत्वोर्थः । तसिवती । नानासाविति ॥ इति खरादिः॥२॥ ३ चादयोऽसत्वे । १ । ४ । ५७ ॥ च वा ह अह एव एवम् नूनम् शश्वत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् आकीम् माङ् नञ् तावत् यावत् त्वा ५५
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy