________________
(३) जैमिनिमत-निरासः
(५) अनशनादिना शरीरपीडनं सन्तापस्तस्यारम्भोनुष्ठानं पापहानाय । पापस्य [.. ...........14 जाड्ये लिङ्गं। तथा हि (1) सर्वस्य पापस्य निदानं लोभद्वेषमोहाः। तैश्चाविरुद्धः सन्तापारम्भ इति कुतस्तेन पापशुद्धिः ।
एतानि पंच लिङ्गानि जाड्ये । किविशिष्टे जाड्ये। ध्वस्तप्रज्ञाने। प्रमाणावलम्विज्ञानं प्रज्ञानन्तद् ध्वस्तं यस्मिन् जाड्ये तत्तथोक्तं। न्यायानुसारिज्ञान रहित इत्यर्थः। यथास्थलमुपादानात् पञ्चेत्युक्तम. . . . . . . . . . . . लिङ्गानीति ॥०॥
भट्टोद्योतकरादिषु प्रविचयो येषां महान् विद्यते सद्वस्त्वाकरधर्मकीर्तिजलधेरन्तर्निमग्नम्मनः। - पौर्वापर्यविमर्षिणी स्मृतिरलं प्रज्ञापि चोत्कर्षिणी यत्किञ्चिद् गदिन्तदत्र निपुणैस्तैरेव विज्ञास्यते॥ अर्थोत्खातपरम्परासु महती वाचः प्रसन्नात्मता यस्यामन्यसुभाषिताऽ [..............] तिः। दध्मात (?) समस्ततीर्थिकमतध्वंसश्च सं (वेद्य)ते
टीकेयं सुविलक्षणोदितधियामावर्जनीया कथमिति ॥०॥ कर्ण क गो मिविरचितायाम्प्रमा (णवात्तिकवृत्ति. . . . . . . . . . . . . प्रमाण. . . . . . . . . . . . . . . . . )॥०॥