________________
प्रमाणवात्तिकस्ववृत्तिटीका (१॥३४२) रम्भः पापहानाय चेति ध्वस्तप्रज्ञा (नां पञ्च) लिङ्गानि जाइये ॥
(महानयायिकेन सकलभूतलवादीभशिरोविक्रमसिंहेनाशेषदिङ्मधुरकीतिना आचार्यश्रीधर्मकीतिना निबद्धा प्रमाणवात्तिकप्रथमपरिच्छेदवृत्तिः समाप्ता। मंगलम्।)
वृत्तिः स्यात्तदा वस्त्वन्तरेणावृत्तौ सत्यां स्यादागमनिवृत्तिलक्षणस्यानुपलम्भस्याभावनिश्चायकत्वं (।) तच्च नास्ति वस्त्वन्तरेणाप्यागमस्य वृत्तेः ।
एवं च सति ततोर्थव्यभिचारिण आगमात् प्रतिपत्तुकामस्य पुंसोभिमतार्थासिद्धिरित्युक्तं। तेन कारणेन विप्रकृष्टेष्वसन्निश्चयफलेत्यसद्व्यवहार [विष 217b . . . . . . . . . . . . . . ]? न सिध्यति।
तस्मान्न प्रमाणत्रयनिवृत्तावपि प्रत्यक्षानुमानागमसंज्ञितस्य प्रमाणत्रयस्य निवृत्तावपि देशकालस्वभावविप्रकृष्टेष्वर्थेष्वनिश्चय इत्युपसंहारः।
अयुक्ताभिधायित्वे दिङमात्रन्तीथिकानान्दर्शयन्नाह।
(१) वेद इत्यादि। इति शब्दो वादशब्दश्चात्र वक्ष्यमाणकस्सम्बन्धनीयः । तेनायमर्थः (1) वेदप्रामाण्य.....................जाडये] लिङ्गं ।
ननु गुणेन षष्ठीसमासप्रतिषेधाद् वेदस्य प्रामाण्यमिति भवितव्यं ।
नायं दोषो लोकप्रसिद्धानाम्विशिष्टानामेव गुणानान्तत्र ग्रहणात्। अस्य च लिङ्गमधिकरणैतावत्व इत्यादिको निर्देशः ।
(२) कस्यचित् नै या यि का देरीश्वरस्तत्त्वादीनां कर्तेत्ययमपि वादो जाड्ये लिङ्गं।
(३) तीर्थस्नाने धर्मेच्छा जाड्यलिङ्गमप[र.............] मोहादिस्तज्जनितं च कायवाक्कर्म धर्मस्तद्विपरीतञ्च जलसंश्लेषमात्रलक्षणं स्नानमिति कुतस्ततो धर्मप्राप्तिः। विस्तरेण निराकृतश्चायन्तीर्थस्नानवाद आचार्य व सु ब न्धु प्रभृत्तिभिरिति नेह प्रतन्यते।
(४) शीलादिगुणवैकल्येपि ब्राह्मणोहमिति जातिवादेनावलेपो. दो जाड्यलिङ्गमयुक्तत्वात्। [तथा हि प्र........ . . . . . . . गृहीत्वा जातिवादावलेपः स्यात्। ब्राह्मणेन पित्रा ब्राह्मण्या गर्भे य उत्पादस्तं वा समाश्रित्य । तत्र वस्तुभूतसामान्यनिषेधान्न पूर्वः पक्षः। नाप्युत्तर: ब्राह्मणब्राह्मणीशरीरयोरशुचिस्वभावत्वेन शरीरान्तरादविशेषात् ।
1 Restored.