________________
६१६ . प्रमाणवात्तिकस्ववृत्तिटीका (१।३४१)
. परस्परविरुद्धार्था कथमेकत्र सा भवेत् ॥३४०॥ ___यदि एष नियमो वाच्येन वस्तुना विना शब्दो न. प्रवर्त्तत' इति भिन्नेषु प्रवादेषु एकत्र वस्तुनि विरुद्धस्य स्वभावस्योपसंहारेण वृत्तिर्न स्यात्। न ह्यस्त्ययं सम्भवो यदेकः शब्दो निःपर्यायं नित्यश्च स्यादनित्यश्चेति । । ।
वस्तुभिागमास्तेन कथञ्चिन्नान्तरीयकाः।
प्रतिपत्तुन्नं सि[ध्यन्ति] कुतस्तेभ्यो ऽर्थनिश्चयः ॥३४१॥ प्रागमस्य प्रमाणं तदादर्शितार्थप्रतिपत्तयेऽज्ञो जनः समन्विष्यति। समधिगतयाथातथ्यानां उपदेशानपेक्षणात् । अतीन्द्रियगुणपुरुषस्य विवेचनेऽसामर्थ्यात् ।
एवमित्यादिना प्रतिविधत्ते। एवं सतीति यद्यर्थवशेनैव वचनप्रवृत्तेस्सर्वा वचनप्रवृत्तिः सत्यार्था......दैकत्राभिधेये आगमभेदेन परस्पर विरुद्धार्था सा वचनवृत्तिः कथम्भवेत् । नैव भवेत् । सर्वप्रवादेष्वेकार्थेव भवेदिति यावत्।
यदीत्यादिना व्याचष्टे। यद्येष नियमो वाच्यम्वस्त्वन्तरेण वाच्येन वस्तुना विना शब्दो न प्रवर्तत इति तदा परस्परविरुद्धार्थाभिधान्मद् भिन्नेषु प्रवादेषु सिद्धान्तेष्वेकत्र वस्तुनि। नित्यानित्या [दे........वि]"रुद्धस्य स्वभावस्योपसंहारेण समारोपेण वचनवृत्तिन स्यात् । यतो न शस्त्ययं सम्भवो यवेकः शब्दो निःपर्यायमिति प्रकारान्तरेण विनेत्यर्थः। नित्यश्च स्यादनित्यश्चेति। शब्दग्रहण
मुपलक्षणार्थं (1) तेन घटादिरपि निःपर्यायन्नित्यश्च । नित्यश्च न सम्भवत्येव । 217a भवति च कस्यचित् प्रवादे नित्यः शब्द इति [व......]'त्तिरन्यस्यानित्य इत्येवं
सात्मको निरात्मक इत्यादि।
तस्मान्नास्ति शब्दानां बारिर्थस्सह सम्बन्धः।
यत एवन्तेन कारणेन प्रतिपत्तुः पुरुषस्य। वस्तुभिः सहागमा नान्तरीयका अविनाभाविनो [न कथंचित्प्रतिपत्तुः सिध्यन्ति तत्कुस्तेभ्य] आगमेभ्यो वस्त्वनान्तरीयकेभ्यो[र्थनिश्चयो न वा निश्चयः। आगमस्य प्रमाणां] न सर्वोन्वेषते किन्त्वज्ञो जनः। समन्वेषते किमर्थं (1) तदादर्शितार्थप्रतिपत्तये। तेनागमेनोपदर्शितस्यार्थस्य प्रतिपत्त्यर्थं। किङ्कारणमज्ञ एव समन्वेषते नान्य इत्याह। समधिगतं याथातथ्यं पदार्थानामविपरीतं रूपं यैस्तेषामधिगतपरमार्थानां परोपदेशानपेक्षणात्। येनाप्यज्ञेनान्वेषणीन्तस्य [.......T] तीन्द्रिया गुणा यस्य पुरुषस्य सोतीन्द्रियगुणः (1) पश्चात् पुरुषशब्देन विशेषणसमासः । तस्य पुरुषस्य विवे
1Mthon-pa-mi-ses-pa.