________________
(३) जैमिनिमत-निरासः
६१५
(अपि च । नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः ।
न च तदुव्यतिरिक्तस्य विद्यते(ऽव्यभिचारिता) ॥३३९।। न तावद् वचनं वाच्यानां स्वभावः। नाप्येषां कार्यम् । तदभावेऽपि वक्तविवक्षा'मात्रेण भावात्, न चान्यः कश्चित् अव्यभिचारी अस्ति। व्यभिचारिणि 534b च सति ततोऽन्यथापि तत्सम्भवात् । तस्य भावात् तत्प्रतीतिरयुक्ता।
प्रवृत्तिर्वाचकानाञ्च वाच्यदृष्टिकृतेति चेत् । एवं हि सति वाक्यस्य कार्यमेव, वाचकस्य हि वाच्यदर्शनेन प्रवृत्तेः। एवं सति
अपि च यो नाम कश्चित्, कस्यचिद् गमकः स तत्स्वभावस्तज्जन्यो वा सन् गमयेन्नान्यथा। न चायं ध्वनिर्वाच्यत्वेनाभिमतानां वस्तूनां स्वभावः (1) किं कारणं (1) यस्माद् वक्तरि ध्वनिः स्थितो न ह्यन्यस्वभावोन्यत्र वर्तते। वस्तनां कार्य वा (1) नायं ध्वनिः (1) किं कारणं (1) यस्माद् वक्तरि मतिध्वनिर्भवति । तेनायमर्थः। (।) यस्माद् वक्तुरिच्छामात्रप्रतिबद्धो न बाह्यवस्तु [......] इत्यर्थः। न च तद्वयतिरिक्तस्येति स्वभावकार्यव्यतिरिक्तस्यार्थस्याव्यभि चारिता विद्यते।
नेत्यादिना व्याचष्टे। तावच्छब्दः क्रमे। एतद् वक्तृस्थम्वचनं न तावद् वाच्यानामर्थानां स्वभावः। नाप्येषां वाच्यानां कार्य। कि (ङ्) कारणं (1) तदभावेपि। वस्तूनामभावेपि विवक्षामात्रेण भावादुत्पत्तेन च कार्यस्वभावाभ्यामन्यः कश्चित् कस्यचिदव्यभिचारी हेतुरस्ति। वा[......]. व्यभिचारे च सति शब्दस्य ततोन्यथापीति । तस्माद् बाह्यार्थादन्यथापि वाह्यार्थभावेपीत्यर्थः । तत्सम्भवात् तस्य शब्दस्य सम्भवात् कारणात् । तस्य शब्दस्य भावात् तत्प्रतीतिर्वाह्यार्थप्रतीतिरयुक्ता। _ स्यादेतद् (1) यद्यपि वाच्याद् वस्तुनोर्थान्तरं वचनन्तथापि तस्य वाच्यस्य कार्यमेवेति गमकमेव। यस्माद वाचकानां शब्दानां या प्रवत्तिरुत्पत्तिरभिव्यक्तिर्वा सा वाच्य द]4ष्टिकृता। वाच्यस्यार्थस्य यद्दर्शनन्तत्कृता। वाच्ये हि सति तद्दर्शनन्तद्दर्शनं (1) तद्दर्शनात् तद्विवक्षा। विवक्षातो वचनमिति पारम्पर्येण वचनमर्थकार्यमिति पूर्वपक्षः।
स्यावेतदित्यादिना व्याचष्टे । तस्माद् वाचकस्य शब्दस्य वाच्यदर्शनेन प्रवृत्तेः
1 Restored.