SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ 524b ५७६ प्रमाणवार्तिकस्ववृत्तिटीका ( १।३११ ) प्रतिपद्येत । न चैवम् । तस्मादयं अनुक्रमः स्वभावतः कार्यकृत् तथापि कश्चिदेव विज्ञात इति परोक्षार्थ' दर्शी पुरुषो भवति । न ह्ययमर्थक्रियासमर्थ इति न हि शक्यं प्रत्येतुम् । संकीर्णस्य लिङ्गविशेषस्यासिद्धेः । प्रत्यक्षेण तु श्रनुपदिष्टयोर्मन्त्रामन्त्रयोर' परिज्ञानात् । उपदेशेऽपि केनचिदप्याकारेण स्वभावविवेकाप्रतीतेरन्यत्र, कार्यसंवादाच्च । तस्य च कार्यस्य प्राग् द्रष्टुमशक्यत्वात्' । न चायं क्रमः स्वभावतः कारकः, कस्यचिद् श्राशुसिद्धेः, श्रन्यस्य चिरात् सिद्धेः, नैव प्रतिपाद्ये- तानुतिष्ठेत् ( 1 ) न चैवं प्रतिपद्यते ( 1 ) तस्मादयं मन्त्राख्यो वर्णानुक्रमः स्वभावतो यदि नाम कार्यकृदभ्युपगतो मी मां स कैस्तथापि कश्चिदेव पुरुषैरतीन्द्रियशक्तिभेदयुक्तो विज्ञात इति कृत्वास्ति परोक्षार्थदर्शी पुरुषी यो मन्त्रन्तत्सामर्थ्यन्तदनुष्ठानञ्च वेत्ति । यद्यपि सत्यतपःप्रभाववतां समीहितार्थसाधनं वचनं मन्त्र इत्युक्तं ( 1 ) तथाप्यभ्युपगम्योच्यते (1) स्वभावतोपि कार्यकृन्मन्त्र इति । कार्यकृन्मन्त्रकरणेन वा मन्त्रफलशक्तिज्ञानेन वा पुरुषातिशय इत्युक्तम्भवति । अनुमानात् मन्त्रामन्त्रपरिज्ञानात् परोक्षदर्शिनोऽभाव इत्यत्राह । न हीत्यादि । अयमर्थः (1) वर्णानुक्रमलक्षणो विषाद्यपनयने समर्थोऽयन्तु वर्णानुक्रमो न समर्थ इति । एवं न हि शक्यं लिङ्गात् प्रत्येतुं । किं कारणं (1) मन्त्रामन्त्रविभागेनासंकीर्णस्य लिङ्गविशेषस्यासिद्धेः । ननु च वर्णरूपयोर्मन्त्रामन्त्रयोः प्रत्यक्षेण ग्रहणे फलदानशक्तिरपि तदव्यतिकात् प्रत्यक्षगृहीतैवेति ( 1 ) अत आह । प्रत्यक्षयोरित्यादि । अनुपदिष्टयोरित्ययं मन्त्रो नायम्मन्त्र इत्येवमकथितयोरपरिज्ञानात । अयम्विषाद्यपनयने शक्तोऽयमशक्त इत्येवमनिश्चयात् । उपदेशे पीति (1) यदि नाम केनचिदुपदिष्टम्भवत्ययं मन्त्र एवं - कार्यकारीति । तथापि कथंचित् केनचिदप्याकारेण मन्त्रस्य यः स्वभावविवेकस्तस्याप्रतीतेरनिश्चयात् । उपदेशस्याप्रामाण्यात् । अन्यत्र कार्यसम्वादात् । मन्त्रसाध्यकार्यप्राप्त्या त्वयम्मन्त्र इति निश्चयः स्यात् । तस्य च मन्त्रस्य साध्यस्य कार्यस्य करणात् प्रागिति मन्त्रानुष्ठात् प्राग् द्रष्टुमशक्यत्वात्। 15 तदानीन्तस्य सत्वादिति भावः । न चानिश्चितस्य मन्त्रस्यानुष्ठानं सम्भवति । तस्मादवश्यं मांस नातीन्द्रियार्थदर्शी पुरुषोभ्युपगन्तव्यो यो मन्त्रामन्त्रस्वभावं विवेचयति (1) अन्यथा मन्त्रानुष्ठानं न स्यात् । न चाय मन्त्राख्यो वर्णक्रमः स्वभावतो विषाद्यपनयनादेः कारकः किन्तु
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy