SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भूमिका । वृत्तिकार इति व्यक्तं द्वितीयं नाम विभ्रतः । वेदवेदाङ्गविदुषः सर्वशास्त्रार्थवादिनः ॥ ११ ॥ जयन्तनाम्नः सुधियः साधुसाहित्यतत्त्ववित् । सूनुः समभवत्तस्मादभिनन्द इति श्रुतः ॥ १२ ।। काव्यविस्तरसंधानखेदालसधियं प्रति ।। तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ।। १३ ॥ एवमुपाश्लोकि । तेन राजतरङ्गिण्याश्चतुर्थतरन तारापीडोऽपि तनयः क्रमात्तस्यामजायत । अविमुक्तापीडनामा मुक्तापीडोऽपि भूपतेः ।। इति द्विचत्वारिंशत्तमे श्लोके निर्दिष्टनाम्नो मुक्तापीडनाम्रः काश्मीरनरप तेरमात्यस्य शक्तिस्वामिनः प्रपौत्रोयं जयन्तभट्टो मुक्तापीडकालादनन्तर शतवर्षान्यूनकालवर्तीति समयनिर्णयः प्रामाणिकः। . __जयन्तभट्टसमयनिर्णयोपक्रम:अभिधर्मकोशप्रणेता वसुबन्धुः ३२०-३३० ई० व्देषु भुवं शासतोऽयो. ध्याधीश्वरस्य प्रथमस्य गुप्तसम्राजश्चन्द्रगुप्तस्य तनूजन्मनश्चन्द्रप्रकाशस्य सचिव आसीदिति काव्यालङ्कारसूत्रे 'सोऽयं सम्प्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा। जातो भूपतिराश्रयः कृतधियां दिष्टया कृतार्थश्रमः ।। आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्याक्षेपपरत्वात्' इति वामनस्योद्धरणात्प्रतीयते इति वसुबन्धोः समयः २९० ई० वर्षादारभ्य ३६० ई० वर्षपर्यन्तं निश्चीयते । अस्मिन्नेव समये सङ्घभद्राख्यो बौद्धः वसुराताख्यो महावैयाकरणश्च एतद्विरोधिनौ बभूवतुः । वसुरातश्च न्यायप्रस्थानमागीस्तानभ्यस्य स्वं च दर्शनम् । प्रणीतो गुरुणास्माकमयमागमसंग्रहः ॥ - इति वाक्यपदीयद्वितीयकाण्डस्थ ४९० श्लोकपुण्यराजोये भर्तृहरिगुरुत्वेन वर्णितः । एवं च यदि वसुबन्धोश्वरमे वयसि वसुरातस्य स्थितिस्तदा ३३० ई० वर्षादारभ्य ४०० ई० वर्षपर्यन्तं वसुरातस्य सत्ताकाल इति तदीयशिष्य.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy