________________
भीविश्वेश्वरः शरणम् ।
न्यायमञ्जरीभूमिका । अथेदानी संस्कृतवाणोप्रणयिनां तत्र भवतां करकमलयीरुपायनीकर्तु मुद्रयित्वा प्रकाश्य न्यायसूत्रतात्पर्यविवृतिं न्यायमञ्जरीनामानं महानिबन्धं महती प्रमोदपरम्परां वहायद्यपि अस्मिन्महानिबन्धे सर्वाणि गोतमसू. त्राणि नामग्राहं न व्याख्यातानि तथापि तात्पर्यतोऽशेषविशेषवक्तव्यपुरस्सरं व्याख्यातान्येव न केवलं व्याख्यातान्येव किन्तु वादिनां विप्रतिपतिवातनि. रासोऽपि तथा कृतो यथाद्ययावन्नैकत्र कापि निबन्धे दृष्टचरः। __ अस्याः किल रचयिता पदवाक्यप्रमाणपारावारपारीण: श्रीचन्द्रपण्डितस्य । सनूजन्मा श्रीजयन्तभट्टो नाम
वादेष्वाप्तजयो जयन्त इति यो विख्यातकीर्तिः क्षिता. वन्वर्थो नववृत्तिकार इति यं शंसन्ति नान्ना बुधाः । सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रत्विषा
चक्रे चन्द्रकलावचूलचरणध्यायी स धन्यां कृतिम् ॥ इति एतद्ग्रन्थस्थोपान्तिमपद्यादवगम्यते । अस्य पुत्रेणाभिनन्दपण्डितेन स्वनिर्मितकादम्बरीकथासारोपक्रमे
शक्तिर्नामाऽभवद्गौडो भारद्वाजकुले द्विजः । दीर्घाभिसारमासाद्य कृतदारपरिग्रहः ॥५॥ तस्य मित्राभिधानोऽभूदात्मजस्तेजसां निधिः । जनेन दोषोपरमप्रबुद्धेनार्चितोदयः ॥ ६॥ स शक्तिस्वामिनं पुत्रमवाप श्रुतिशालिनम् । राजः कर्कोटवंशस्य मुक्तापीडस्य मन्त्रिणम् ॥७॥ कल्याणस्वामिनामास्य याज्ञवल्क्य इवाभवत् ।। तनयः शुद्धयोगचिनिधूतभवकल्मषः ॥ ८॥ अगाधहृदयात्तस्मात्परमेश्वरमण्डनम् । अजायत सुतः कान्तश्चन्द्रो दुग्धोदधेरिव ॥९॥ पुत्रं कृतजनानन्दं स जयन्तमजीजनत् । व्यका कवित्वस्तृत्वकला यस्य सरस्वती ॥ १० ॥