________________
न्यायसूत्रोदारेप्रोतरात्माश्रयत्वादप्रतिषेधः ॥ ५२॥ न पुत्रपशुस्त्रीपरिच्छदहिरण्यानादिफलनिर्देशात् ॥ ५३ ॥ तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ५४॥ विविधवाधनायोगाद् दुःखमेव जन्मोपत्तिः ॥ ५५ ॥ न सुखस्यान्तरालनिष्पत्तेः । ५६ ॥ बाधनानिवृर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥१७॥ दुःखविकल्पे सुखाभिमानाच्च ॥ ५॥ ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ १९ ॥ प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपतेः ॥ ६० ॥ समारोपणादात्मन्यप्रतिषेधः ॥ ६१ ॥ पात्रचयानुपपत्तेश्च फलाभावः ॥ ६२ ॥ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ ६३ ॥ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ६ ॥ न क्लेशसन्ततेः स्वाभाविकत्वात् ॥ ६५ ॥ प्रागुत्पचेरभावानित्यत्ववत्स्वाभाविकेप्यनित्यत्वम् ॥६६॥ अणुश्यामतानित्यत्ववहा ॥ १७॥ न संकल्पनिमित्तत्वाच्च रागादीनाम् ॥ ६॥
इतिश्रीगौतमसूत्रे चतुर्थाध्यायस्याघमाहिकम् ।
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः॥१॥ दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥२॥ सन्निमित्तं त्वयव्यभिमानः ॥३॥
विद्याविद्याद्वैविध्यात्संशयः॥४॥ ५२ आश्रयव्यतिरेकोऽसिद्ध इति सूत्रार्थः इति वार्तिकम् । ६३-६४ सूत्रार्यकथनेनैव भाष्यवार्तिके व्याख्याते इति ताटी० । ५५-६६-५७-५८ एषां सूत्रत्वे प्रमाण न्या. यसूचीनिबन्धः । ५९ अपवर्गः प्रत्याख्यायते ऽनेनेति सूत्रेणेति वार्तिकम् । ६० अस्य सनत्वे प्रमाणं न्यायसूचीनिबन्धः । गुणशब्देनार्थवाद इति पागे न्यायसूत्राविवरणे । इत: पाम् 'अन्यत्र च अधिकाराच्च विधार्म विद्यान्तरवत्' इति सूत्रमधिकं वार्तिके हव्यते । ६१-६२ हमे सूत्रे इति परिशुद्धिः ॥ ६३-६४-६५-६६-६७-६८ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिवन्धः ।
१ इदं सूत्रमिति ता० टी० । २ सूत्रं दोषनिमित्तमित्यादि ता. टो। .. ३सूत्रं तनिमित्तमिति ता० टी०। ४ संभवप्रदर्शनाय सूत्रमिति वृत्तिः ।