________________
गोतमात्रपाठ।
नोत्पतिविनाशकारणापलब्धेः ॥३०॥ तल्लक्षणावरोधादप्रतिषेधः ॥ ३१ ॥ नोत्पत्तितत्कारणापलब्धेः ॥ ३२ ॥ न व्यवस्थानुपपत्तः ॥ ३३ ॥ सर्व पृथग्भावलक्षणपृथकत्वात् ॥ ३४ ॥ नानेकलक्षणैरेकभावनिष्पतेः॥५॥ लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ३६ ॥ सर्वमभावो भावेष्वितरेतराभावसिद्धः ॥ ३७॥ न स्वभावसिद्धर्भावानाम् ॥ ३८ ॥ नस्वभावसिद्धिरापेक्षिकत्वात् ॥ ३९ ॥ व्याहतत्वादयुक्तम् ॥ ४०॥ संख्यैकान्तासिद्धिः कारणानुपपत्युपपत्तिभ्याम् ॥ ११ ॥ न कारणावयवभावात् ॥ ४२ ॥ निरवयवस्वादहेतुः॥४३॥ सघः कालान्तरे च फलनिष्पत्तेःसंशयः॥४४॥ न सद्यः कालान्तरोपभोग्यत्वात ॥ ४५ ॥ कालान्तरेणानिष्पत्तिहेतुविनाशात् ॥ १६ ॥ प्रानिष्पवृक्षफलवत्तत्स्यात् ॥ ४७ ॥ नासन्न सन्न सदसत्सदसतोवैधात् ॥ ४ ॥ उत्पादण्ययदर्शनात् ॥ १९॥ बुद्धिसिद्धं तु तदसत् ॥५०॥ आश्रयव्यतिरेका वृक्षफलोत्पत्तिवदित्यहेतुः ॥११॥
सबवे प्रमाण न्यायसूचीनिबन्धः । ३०-३१-३५ षां सूत्रत्वे प्रमाण न्यायसूचीनिवन्धः । ३३ अस्य सूत्रत्वे प्रमाणं वातिकम् । मरहितः पाठ इति राधामोहनः । ३४ पूर्वपक्षसूत्रमिति वृत्तिन्यायसूचीनिबन्धेऽपीदम् । ३५-३६ अनयोः सूत्रत्वे प्रमाणं न्यायसूचीनिवन्धः ।३०-३८ किं पुनरनेन सूत्रेण क्रियते । पूर्वसूचविरोध. श्वोचत इति वार्विकादमयोः सूत्रत्वम् । ३९-४० अनयोः सूत्रत्वे प्रमाणं न्यायसूची. निबन्धः । ४१ प्रतिषेधद्वारकं सूत्रमिति वातिकम् । ४२ एकान्तो अयं सूत्रार्थ इति बार्तिकम् । ४३-४४ भन्योः सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४९ न-सघः फल. मिति फलघटित सूत्र न्यायसूचीनिबन्धे । ४६ कालान्तरेणानिष्पतिहेतुविनाशादिति पागे न्यायसूचीनिबन्धे । ४७ इदं सूत्रमिति न्यायसूचीनिबन्धः । ४८ इदं सूत्रमिति परिशुदिः । ४९-५० उत्पादव्ययवर्धनाबुद्धिसिद्धं तु तदसदित्यनयोरपि सात्वं सिद्धं भवतीति परिशुद्धिः । ११ अत्र न्यायसूचीनिवन्ध प्रमाणम् ।