________________
गोतमयमा
प्रासौ चानियमात् ॥ ६८॥ शरीरोत्पतिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ॥ ६ ॥ एतेनानियमः प्रत्युक्तः ॥ ७० ॥ उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः॥ ७१ । तदद्वष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ७२ ॥ न करणाकरणयोरारम्भदर्शनात् ॥ ७३॥ मनः कर्मनिमित्तत्वाच संयोगानुच्छेदः ॥ ७४ ॥ नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ७५ ॥ मणुश्यामतानित्यत्ववदेतत्स्यात् ॥ ७६ ॥ नाकृताभ्यागमप्रसङ्गात् ॥ ७७ ।। इति गौतमसूत्रे तृतीयाध्यायस्य द्वितीयमाह्निकम्
॥ इति गौतमसूत्रे तृतीयोध्यायः॥
प्रवृत्तिर्यथोक्ता ॥१॥ तथा दोषाः ॥२॥ तत्नैराश्यं रागद्वेषमोहान्तरभावात् ॥ ३ ॥ नेकप्रत्यनीकभाषात् ॥ ४॥ व्यभिचारादहेतुः॥५॥ तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः॥६॥ निमित्तनैमित्तकभावार्थान्तरभावो दोषेभ्यः ॥ ७॥
६८ प्राधौ-त् इति ताटी । न्यायनिबन्धप्रकाशः । ६९ प्रातस्तहि इत्यधिक: पाठ: पं० पु० अस्योद्वारक सूत्रमिति वार्तिकम् । ७. इदं सूत्रमिति परिशुद्धिः । ७१ हदन सूत्रं किन्तु भाष्यमिति बहवः । ७२-इदं सूत्रमिति ता. टी. । 'पुनस्त. प्रखगोपवगें। इत्येतावन्मानं सूत्रमिति-राधामोहनः । ७३ इदं न्यायसूचीनिवन्धे न उपयते । ७४ संयोगायनुच्छेद इति न्यायसूचीनिबन्धपाठः । संयोगाव्युच्छेद इति पाठ इति राधामोहनः । ७५-७६ अनयोः सूत्रत्वे न्यायसूचीनिबन्धः प्रमाणम् । ७. इदं सूत्रमिति वार्तिकम् ।।
१ मानिराकरणाय सबमिस्याहेति ता० टी०। २ प्रवृत्तिदोषसूत्राम्यामिति परिशुद्धिः। ३ सिद्धान्तसूत्रमिति वृत्तिः । ४-५-६ एषां सूत्रत्वे प्रमाण न्यायः सूचीनिवन्धः । • न्यायसूचीनिबन्धादौ प्राप्तस्तहीत्यशो नास्ति अयमंशो भाष्यकृतः