________________
ક
न्यायसूत्रोद्धारे
ग्रहणे हेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात् ॥ ४७ ॥ प्रदीपार्चिः सन्तत्यभिव्यक्तग्रहणचत्त महणम् ॥ ४८ ॥ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ ४९ ॥ यावच्छरीरभावित्वाद्रूपादीनाम् ॥ ५० ॥ न पाकजगुणान्तरोत्पत्तेः ॥ ५१ ॥
प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥ ५२ ॥ शरीरव्यापित्वात् ॥ ५३ ॥ केशनखादिष्वनुपलब्धेः ॥ ५४ ॥
स्व पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ ५५ ॥ शरीरगुण वैधर्म्यात् ॥ ५६ ॥ न रूपादीनामेतरेतरवैधर्म्यात् ॥ ५७ ॥ ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ॥ ५८॥ ज्ञानायौगपद्यादेकं मनः ॥ ५९ ॥ न युगपदनेकक्रियोपलब्धेः ॥ ६० ॥ अलातचक्रदर्शनवत्तदुपलब्धिराशुसञ्चारात् ॥ ६१ ॥
यथोक्तहेतुत्वाच्चाणु ॥ ६२ ॥ पूर्व कृतफलानुबन्धात्तदुत्पतिः ॥ ६३ ॥ भूतेभ्यो मूर्क्युपादानवत्तदुपादानम् ॥ ६४ ॥ न साध्यसमत्वात् ॥ ६५ ॥ नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥ ६६ ॥ तथाहारस्य ॥ ६७ ॥
सूत्रत्वे न्यायसूची निबन्धः प्रमाणम् । ४७ इदमन्त्रैव दृश्यत न न्यायसूचीनिबन्धादौ ४८ न प्रदीपार्चिष इति नकारसहितः पाठा न्यायसूची निबन्धे । ४९ इदं सूत्रमिति वार्तिकम् । ५० इदं सूत्रमिति वार्तिकम् । ५१ सिद्धान्तसूत्रमिति वृत्तौ न्यायसूचीनिबन्धे च । ५२ सिद्धान्तसूत्रमिति वृत्तिः । ५३ शरीरख्यापित्वादित्येतस्य सूत्रस्येति परिशुद्धिः । ६४ इदं सूत्रमिति वार्तिकम् न केशादिष्विति नञ्घटितः पाठोन्यायसूचीनिबन्धे । ५५ त्वक्पर्यन्तत्वाच्छरीरस्येति सूत्रव्याघातदिति परिशुद्धिः । ५६ - ५७ अनयोः सूत्रत्त्रे प्रमाणं न्यायसूचीनिबन्धः । ५८ उक्तः सूत्रार्थ इति वार्तिकम् । १९ अस्य सूत्रस्वे प्रमाणं न्यायसूचीनिबन्धा वृत्तिश्च । शेष भाष्ये इति वार्तिकस्वरसादस्य सूत्रत्वम् । ६१ अस्योत्तरद्वारकं सूत्रमिति वार्तिकम् । ६२ इदं सूत्रमिति परिशुद्धिः । ६३ अस्य सूत्रत्वे प्रमाणं न्यायसचीनि बन्धः । ६४ इदं सूत्रमिति वार्तिकम् । ६५ अस्य सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः पूर्वसूत्रप्रतीकेन पूरयतीति तात्पर्यटीकादर्शनादनयोः
६०
६६-६७
सूत्रत्वम् ।