________________
गोतमसूत्रपाठः।
तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥ ४०॥ नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥४१॥ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः॥ ४२ ॥ कृतताकर्तव्यतोपपत्तेस्तूभयथाग्रहणम् ॥ ४३ ॥ मस्यन्तप्रायैकदेशसाधादुपमानसिद्धयथोक्तदोषानुपपत्तिः ॥७॥ प्रसिद्धसाधादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ ४५ ॥ प्रत्यक्षेणाप्रत्यक्षसिद्धः ।। ४६ ॥ माप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ॥ ४७ ॥ तथेत्युपसंहारादुपमानसिद्ध विशेषः॥४८॥ शब्दोनुमानमर्थस्यानुपलब्धेरनुमेयत्वात ॥ ९ ॥ उपलब्धेविप्रवृत्तित्वात् ॥ ५० ॥ संबन्धाश्च ॥ ५ ॥ आप्तोपदेशसामर्थ्याच्छब्दादर्थसंप्रत्ययः ॥ १२ ॥ पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥ ५३ ॥ शब्दार्थव्यवस्थानादप्रतिषेधः ॥ ५४॥ सामयिकत्वाच्छदार्थसंप्रत्ययस्य ॥ ५५ ॥ जातिविशेषे चानियमात् ॥५६॥ तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ ५७॥ न कर्मकर्तृसाधनवैगुण्यात् ॥ ८ ॥ अभ्युपेत्य कालभेदे दोषवचनात् ॥ ५९॥ अनुवादोपपत्तेश्च ॥६० ॥ वाक्यविभागस्य चार्थग्रहणात ॥ ६१ ॥ विध्यर्थवादानुवादवचनविनियोगात ॥ ६२॥ विधिविधायकः ॥ ६३ ॥
स्तुतिनिन्दा परकृतिः पुराकल्प इत्यवादः ॥ ६४ ॥ ४० एतदनुज्ञापनार्थ सूत्रमिति वार्तिकम् । ४१ नाति-द्धिःइति ता०टी०। ४२ इदं सूत्रमिति वार्तिकम् । ४३ । तस्मिन्क्रियमाणे कृतताकर्तव्यतोपपत्तेस्तू भयथाग्रहणम् इति भाष्यतात्पर्यटीकासंमतः पाठः ४४ अत्य-द्विरिति ता० टी० । ४६ प्रसि-त्तिरिति ता० टी०। ४६ प्रत्य हेरिति ता० टी०। ४७-४८ अनयोः सूत्रत्वे तत्वालोकः प्रमाणम् । ४९ इदं सूत्रमिति वार्तिकम् । ६०-६१-६२-६३५४ एषां सूत्रत्वे तत्वालोकः प्रमाणम् ५५ अत्र न सामयिकत्वादिति नकारसहितः पाठस्तत्त्वालोके । ५६ जाति- इति ता० टी० । ५७ तद-भ्य इति ता० टी० । ५८ सिद्धान्तसूत्रमिति वृतिः । ५९-६०-६१-६२-६३-६४ एषणं सुत्रत्वे तत्त्वा.