________________
110
ĀLAMBANAPARIKȘĀ
STHIRAMATI ON THE EXTERNAL THINGS
[The following extract is from the Bhasya (pp. 16-17) of Sthiramati on Vasubandhu's Trimsika, ed. S. Levi. Sthiramati is well-known to be one of the champions of the Āgamānusāri Vijñānavāda school. It will be seen from the extract below, that he has put forth for his view the arguments which are almost similar to those of his two predecessors, Vasubandhu and Dinnāga.]
कथमेतद्गम्यते विना बाहयेनार्थेन विज्ञानमेवार्थाकारमुत्पद्यत इति । बायो ह्यर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानस्यालम्बनप्रत्यय इष्यते न कारणत्वमात्रेण समनन्तरादिप्रत्ययादिविशेषाप्रसङ्गात् । न च सञ्चितमवयवसंहतिमात्राद् अन्यद् विद्यते । तदवयवान् अपोह्य सञ्चिताकारविज्ञानाभावात् । तस्माद्विनैव बाह्येनार्थेन विज्ञानं सञ्चिताकारमुत्पद्यते । न च परमाणव एव सञ्चितास्तस्यालम्बनम् , परमाणूनाम् अतदाकारत्वात् । न ह्यसञ्चितावस्थातः सञ्चितावस्थायां परमाणूनां कश्चिदात्मातिशयः । तस्माद् असञ्चितवत् सञ्चिता अपि परमाणवो नैवालम्बनम् ॥ अन्यस्तु मन्यते । एकैकपरमाणुरन्यनिरपेक्ष्योऽतीन्द्रियः । बहवस्तु परस्परापेक्ष्या इन्द्रियग्राह्याः । तेषामपि सापेक्षनिरपेक्षयोरात्मातिशयाभावाद् एकान्तेनेन्द्रियग्राह्यत्वम् अतीन्द्रियत्वं वा । यदि च परमाणव एव परस्परापेक्षा विज्ञानस्य विषयीभवन्ति । एवं सति योऽयं घटकुड्याद्याकारभेदो विज्ञाने स न स्यात् । 'परमाणूनामतदाकारत्वात् । न चान्यनिर्भासस्य विज्ञानस्य अन्याकारो विषयो युज्यते । अतिप्रसङ्गात् । न च परमाणवः स्तम्भादिवत् परमार्थतः