________________
APPENDIX
109
त्वादिति कथं तस्य प्रत्यक्षत्वमिष्टम् । विशेषेण तु क्षणिकस्य विषयस्य तदानीं निरुद्धमेव तद्रूपं रसादिकं वा ॥
नाननुभूतं मनोविज्ञानेन स्मर्यत इत्यवश्यमर्थानुभवेन भवितव्यम् । तच्च दर्शनमित्येवं तद्विषयस्य रूपादेः प्रत्यक्षत्वं मतम् । असिद्धमिदम् अनुभूतस्यार्थस्य स्मरणं भवतीति । यस्मात् ।
उक्तं यथा तदाभासा विज्ञप्तिः विनाप्यर्थेन यथार्थाभासा चक्षुर्विज्ञानादिका विज्ञप्तिरुत्पद्यते तथोक्तम् ।
स्मरणं ततः। ततो हि विज्ञप्तेः स्मृतिसंप्रयुक्ता तत्प्रतिभासैव रूपादिविकल्पिका मनोविज्ञप्तिरुत्पद्यत इति न स्मृत्युत्पादादर्थानुभवः सिध्यति ॥ यदि यथा स्वप्ने विज्ञप्तिरभूतार्थविषया तथा जाग्रतोऽपि स्यात् । तथैव तदभावं लोकः स्वयमवगच्छेत् । न चैवं भवति । तस्मान्न स्वप्न इवार्थोपलब्धिः सर्वा. निरर्थिका । इदमज्ञापकम् । यस्मात् ।
स्वप्ने दृग्विषयाभावं नाप्रबुद्धोऽवगच्छति ॥ १७ ॥
एवं वितथविकल्पाभ्यासवासनानिद्रया प्रसुप्तो लोकः स्वप्न इवाभूतमर्थं पश्यन् अप्रबुद्धस्तदभावं यथावन्नावगच्छति । यदा तु तत्प्रतिपक्षलोकोत्तरनिर्विकल्पज्ञानलाभात्प्रबुद्धो भवति । तदा 'तत्पृष्ठलब्धशुद्धलौकिकज्ञानसंमुखीभावात् विषयाभावं यथावदवगच्छतीति समानमेतत् ॥
See Mahāyānasūtrālankāra XIV, 43 with Bhāsya.