SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 106 ĀLAMBANAPARĪKŞĀ प्रत्येकमग्रहणात् । नापि ते संहता विषयीभवन्ति । यस्मात्परमाणुरेकं द्रव्यं न सिध्यति । कथं न सिध्यति । यस्मात् । षट्केन युगपद्योगात्परमाणोः षडंशता' । षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर्युगपद्योगे सति परमाणोः षडंशता प्राप्नोति । एकस्य यो देशः तत्रान्यस्यासंभवात् । ___षण्णां समानदेशत्वात्पिण्डः स्यादणुमात्रकः ॥ १२ ॥ अथ य एवैकस्य परमाणोर्देशः स एष षण्णाम् । तेन सर्वेषां समानदेशत्वात्सर्वः पिण्डः परमाणुमात्रः स्यात् परस्पर [7]व्यतिरेकादिति न कश्चित्पिण्डो दृश्यः स्यात् । नैव हि परमाणवः संयुज्यन्ते, निरवयवत्वात् । मा भूदेष दोषप्रसङ्गः । संहतास्तु परस्परं संयुज्यन्ते इति काश्मीरवैभाषिकाः । त इदं प्रष्टव्याः । यः परमाणूनां संघातो न स तेभ्योऽर्थान्तरमिति । ___परमाणोरसंयोगे तत्संघातेऽस्ति कस्य सः । । संयोग इति वर्तते । न चानवयवत्वेन तत्संयोगो न सिध्यति ॥ १३ ॥ _icf. Abhidharmakosabhāsya (Tib.), p. 83, 17-19; and Vyakhya, p. 89 : परमाण्वपरिनिष्पत्तिं वक्तुकाम प्राचार्यो विचारयति । यदि परमाणोरेकस्य पूर्वादिदिग्भागभेद: कल्प्येत । etc. अत्र साधनम् । न निरवयवः परमाणुः, दिग्भागभेदवत्त्वात् । माषराशिवत् इति । तदेतदिग्भागभेदवत्त्वं नेच्छन्ति वैभाषिका: । दिग्भागभेदो हि संघातरूपाणामेव कल्प्यते । एवञ्च ते वर्णयन्ति । धर्मतैवेयं यत्सप्रतिघानां भिन्नदेशत्वम् । तेषां नैरन्तर्येणावस्थानाद् अभिन्नदेशत्वं मा भूदिति सान्तराणामपि सप्रतिघत्वेन गतिः प्रतिबध्यत इति ॥ ' Abh. Kosabhāsya (Tib.), p. 82, 19 : संघाता: सावयवत्वात् स्पृशन्ति । Vyākhyā, p. 89, 7. Ibid., p. 89, 20.
SR No.002350
Book TitleAlamban Pariksha
Original Sutra AuthorN/A
AuthorDinnaga, Dharmapala, N Aiyaswami Shastri
PublisherAdyar Library
Publication Year1942
Total Pages142
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy