________________
६३
_ समतामहोदधिः महाकाव्यम्
ते शिष्यानप्यशिक्षन्त,
यदस्ति देशनार्पणम् । स्पृहारहितभावेन,
ह्यतिशयेन दुष्करम् ।।१२।।
वक्ता प्राप्नोति सर्वत्र,
वचःप्रयोगबुद्धिमान् । सत्कारमपि सन्मानं,
जनेभ्यः स्वंशुकादिकम् ।।१३।।
आत्मपरिणतिर्दुःख
मेतैर्लिप्तेन धार्यते । स्थातव्यं देशनापट्टात्,
सुदूरे मुनिना ततः ।।१४।।
सरलतासाधना ।
आसीन्न हृदयं माया
गुपिलं वंशमूलवत् । दण्डवत्सरलं किन्तु,
तेषां विरलकर्मणाम् ।।१५।।