________________
५९
समतामहोदधिः महाकाव्यम्
देशनायाश्च शिष्याणां,
ततः पदस्य दृष्यते । स्पृहाभिस्तद्यथाऽनयँ,
कज्जलेन सितांशुकम् ।।४।।
प्रेमसूरीश्वरा आस-,
सर्वत्र विगतस्पृहाः । नीरसेन यतोऽन्नेन,
ते स्वोदरमपूरयन् ।।५।।
स्वपरिहितवस्त्रेभ्य
स्ते नाधिकमधारयन् । न देशनाप्रदानस्य,
विलिप्ता ईहयाऽपि च ।।६।।
बहून्भव्यान्भवोद्विग्नान,
प्रव्राज्य त्यक्तकामनाः । शिष्यानपरसाधूनां
कृतवन्तस्तु ते सदा ।।७।।