________________
५३
गुरुभक्तिः कषायाणां,
मन्दता ग्लानसेवनम् ।
स्वाध्यायो ब्रह्मचर्यञ्च,
. समतामहोदधिः महाकाव्यम्
तीव्रान्तर्मुखता तथा ।। ५२ ।।
वैयावृत्त्यं सुसाधूनां, दृढा सहनशीलता ।
इति गुणसुमैस्तेषा
मासीत्सुगन्धि जीवनम् ।। ५३ ।।।। युग्मम् ।।
वैराग्यसागर-जिनेश्वरभक्तिदक्ष
हेमेन्दुसूरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्रकाव्ये,
पद्मं जिनस्य कृपया ह्यभवद्द्वितीयम् ।।५४।।