________________
समतामहोदधिः महाकाव्यम्
दृश्यमानं सुविद्वत्त्वं,
संस्कारा उत्तमास्तथा । फलं तद्दतशिक्षाया,
बहुमुनिषु सम्प्रति ।।४०॥
बालमुनीनशिक्षन्त,
वत्सलत्वेन ते तथा । येन सदैव तेषां ते,
समीपवर्तिनोऽभवन् ।।४१॥
स्वपरसमुदायस्य,
चित्तेऽकृत्वा भिदां तथा । कृतवन्तस्तु ते ज्ञान
दानं संयमनिर्मितिम् ।।४।।
गुरुदेवद्वयं जातं,
सुनिश्चिन्तं ततः सदा । सुलब्धावसरं सङ्घ
कार्यस्य करणे मुदा ।।४३।।