________________
_ समतामहोदधिः महाकाव्यम्
कृतं ज्ञानार्पणं सार्धं,
ज्ञानार्जनेन तैरपि । अनेकसाधवो न्यायं,
संस्कृतं पाठितास्तथा ॥३२॥
आगमेतरशास्त्राणां,
तेऽददुर्वाचनां वराम् । शुद्ध्यै प्रेरितवन्तश्च,
संयमस्य मुनीन्सदा ।।३३।।
जीवनस्यापि संस्कार,
मुनिनां शिक्षणेन ते । सहाऽकुर्वन्सुनेतारः,
ह्यध्यात्मवरशिल्पिनः ।।३४।।
प्रधाना विषयास्तेषां,
वाचनानामिमेऽभवन् । ब्रह्मचर्यञ्च जीवानां,
दया गुरुसमर्पणम् ।।३५।।