________________
४१ -
___ समतामहोदधिः महाकाव्यम
शास्त्रगाथाः सहस्राणि,
हृदयस्थीकृतानि तैः । नानाशास्त्रपदार्थाश्च,
सुधीभिरात्मसात्कृताः ॥२८॥
जैने न्याये तथा नव्ये,
प्रकरणोपदेशयोः । ग्रन्थेषु कर्मसाहित्ये,
ते सजाता विशारदाः ।।२९।।
जिनागमेषु पञ्चाग्र
चत्वारिंशति तेऽभवन् । अतिशयेन निष्णाताः,
प्रचण्डमतिशालिनः ।।३०॥
शास्त्रसारं समासेन,
पुस्तकेऽभ्यस्य तेऽलिखन् । शास्त्राभ्यासश्च तैर्लक्षः,
श्लोकानां प्रमितः कृतः ।।३१।।