________________
३५
-
_ समतामहोदधिः महाकाव्यम्
स्वाध्यायस्य मुनीनां ते,
तनुसंयमयोरपि । सर्वत्र कुशलाश्चिन्तां,
कृतवन्तोऽतिवत्सलाः ।।१६।।
विनयो जीवने स्वस्य,
वैयावृत्त्यं समर्पणम् । मूलभूता गुणा इत्थं,
त्रयस्तैरात्मसात्कृताः ।।१७।।
ज्ञानसाधना ।
सह विनयभक्तिभ्यां,
समर्पणेन तैः कृतः । ज्ञानाभ्यासस्य यत्नोऽपि,
प्रबलो बुद्धिशालिभिः ।।१८।।
गुरुविनयभक्तिभ्यां,
समर्पणेन चार्जितम् । परिणमति सज्ज्ञानं,
झटिति मुक्तिदायकम् ।।१९।।