________________
३३ -
समतामहोदधिः महाकाव्यम्
तावास्तां मुनिभक्तौ च,
भक्तौ ग्लानस्य तत्परौ । उत्कौ निखिलयोगेषु,
जिनवचनभावितौ ॥१२॥
शिवगञ्जपुरे मास
क्षपणं सुसमाधिना । पद्मरारब्धमाद्याह्नः,
पर्युषणाख्यपर्वणि ॥१३॥
गुणानन्दमुनेः स्वास्थ्य
मचारु समजायत । पर्वान्तिमदिनेऽत्यन्त
मुपोषित-मृदोस्तदा ॥१४॥
प्राप्ताः पद्मास्तु सेवार्थ
मवज्ञाय निजं तपः । दत्तवन्तोऽगदं तस्मै,
वाचा शान्तिं बलं तथा ।।१५।।
१. मृदोः = कोमलस्य ।