________________
३१ -
समतामहोदधिः महाकाव्यम्
गुरुक्रमस्थिताः नित्यं,
मात्रङ्कस्थितबालवत् । श्रीपद्मविजया लीनाः,
सेवायां गुरुदेवयोः ॥८॥
महानिशीथसूत्रस्य,
योग ऊढः सहान्यदा । व्यधिकैर्गुरुशिष्याभ्यां,
पूतः पञ्चाशता दिनैः ॥९॥
कटुपानीयमाहार
पात्रकेऽधःस्थिते तदा । पतितं गुरुदेवस्य,
__ पात्रकादुपरिस्थितात् ।।१०।।
श्रीपद्मविजयैर्भुक्तं,
तदन्नं कटुमिश्रितम् । आहारेण गुरोर्भक्ति
नूतनेन कृता तथा ।।११।। १. गुरुदेवयोः = श्रीप्रेमसूरीश्वराणां श्रीभानुविजयानाञ्च ।