________________
समतामहोदधिः महाकाव्यम्
योगास्त्रयोऽपि साधुभ्यां,
स्वकीया गुरुपादयोः । समर्पिता विनीताभ्यां,
निर्वाणद्वारतुल्ययोः ॥४॥
संयमजीवने ताभ्यां,
गुर्वाज्ञैव न पालिता । अनुकूलं गुरोः किन्तु,
हीच्छाया अपि जीवितम् ।।५।।
विहारे गुरुदेवाना
मुपधिं वारिणा भृतौ । घटौ चोत्पाट्य सार्धं तो,
चलितौ गुरुभिर्मुनी ।।६।।
भुक्तवन्तौ गुरौ भुक्ते,
सदा तल्लीनमानसौ । गुरुभिः सह मध्याह्न,
सञ्ज्ञाभूमावगच्छताम् ।।७।।