________________
समतामहोदधिः महाकाव्यम्
द्वितीयं पद्मम् (साधनायज्ञः।)
विनय-वैयावृत्त्य-साधना ।
प्रारब्धः साधनायास्तु,
ताभ्यां यज्ञः स्वजीवने, उत्तराध्ययने प्रोक्ता,
विनयसाधनाऽऽदिमा ।।१।।
गुरुचरणयोस्ताभ्यां,
स्वजीवनं समर्पितम् । मुक्तिपदाभिलाषिभ्यां,
संयमिभ्यां ततो मुदा ॥२॥
उत्थाप्य प्रभुतां स्वीयां,
त्रियोगेभ्यो गुरोस्तु सा, स्थाप्या तत्रेति सम्प्रोक्तं,
समर्पणस्य लक्षणम् ।।३।