________________
२५
-
- समतामहोदधिः महाकाव्यम् सुकृतकारिणोरेवं,
बन्धुमुन्योः शुभागमे । गुरुदेवैः पदं प्राप्तं,
तृतीयं जिनशासने ॥४७॥
वैराग्यसागर-जिनेश्वरभक्तिदक्ष
हेमेन्दुसूरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्रकाव्ये,
पद्मं जिनस्य कृपया प्रथमं समाप्तम् ।।४।।
इति वैराग्यदेशनादक्ष-आचार्यश्रीमद्विजयहेमचन्द्रसूरिशिष्यविनिर्मित-समतामहोदधि'-महाकाव्ये चरित्रनायकपंन्यासप्रवर श्रीपद्मविजय-जन्मज्ञानाभ्यास-गुरुसम्पर्क-दीक्षा-गुरुसूरिपदादि-वर्णनमयं प्रथमं पद्मं समाप्तम् ।
१. हेमेन्दुसूरिः = हेमचन्द्रसूरिः । एवमग्रेऽपि ज्ञेयम् ।