________________
२१
-
समतामहोदधिः महाकाव्यम्
इति विचिन्त्य सन्देशः,
प्रहितस्तैस्तु पत्तने । आगन्तव्यं त्वया सौम्य !
झटिति पूरि राधने ।।३९।।
तैर्वर्तमानपत्रेषु,
मुम्बापुर्या इतस्तदा । कारिता घोषणा तूर्णं,
श्रीप्रेमविजयाय यत् ।।४।। चैत्रशुक्लचतुर्दश्यां,
भव्यं सूरिपदार्पणम् । भविष्यतीति सिद्धान्त
मर्मविभिर्विचक्षणैः ।।४१॥ युग्मम् ।।
श्रीप्रेमविजयास्तूर्ण
__ मागता राधनं पुरम् । गुर्वाज्ञाभङ्गभीत्या तु
गुर्वस्वास्थ्यभयेन च ।।४२।।