________________
_ समतामहोदधिः महाकाव्यम्
सम्प्राप्ताः सङ्घविज्ञप्त्या,
दानमुनीश्वराः पुरे । आराधनकृते चैत्र
____ मासस्यौलेस्तु राधने ।।३५।।
तदाऽऽसीत्तत्र दीक्षाया,
भव्यात्मनो महोत्सवः । वाचकपददानस्य,
श्रीरामविजयाय च ॥३६।।
चिन्तितं दानसूरीशै
स्तदेत्यस्वस्थता मम । देहेऽस्ति मम पश्चात्त
को गच्छं पालयिष्यति ? ॥३७।।
न प्रेमविजयः सूरेः,
स्वीकरोति पदं यतः । तन्मयाऽऽज्ञा प्रयोक्तव्या,
सम्प्रति नाऽपरा गतिः ।।३८।।