________________
१५
समतामहोदधिः महाकाव्यम्
काले तस्मिन्ननुज्ञाऽऽसीत्,
व्रताऽऽदानस्य दुर्लभा । उपायश्चिन्तितः प्राप्तुं,
भ्रातृभ्यां संयमं ततः ।।२७॥
भूषिते पार्धचैत्येन,
चाणस्मानगरे तदा । सम्प्राप्ताः परिवारेण,
सह पूज्याः विहत्य तु ।।२८।।
प्राप्तौ झटिति तत्रैव,
व्रताप्त्युत्कौ च तावपि । एकनवनवैकाऽब्दे,
वैक्रमे हर्षपूर्वकम् ।।२९॥
द्वादश्यां पोषशुक्लस्य,
तिथौ प्रव्राजितौ च तौ । पूज्यप्रेम-कराब्जाभ्यां,
विरक्तौ भाविभद्रकौ ॥३०॥ १. भाविभद्रकौ = भावि भद्रं-कल्याणं ययोस्ताविति भाविभद्रकौ ।