________________
११ -
समतामहोदधिः महाकाव्यम्
भक्तिविजयशिष्यस्य,
कीर्त्या दिविजयस्य तु । कालुश्यामागतास्तत्र,
कतिपयदिनान्स्थिताः ।।२०।।।। युग्मम् ।।
पोपटः प्रत्यहं तेषा
मगच्छद्वन्दनाय तु । मुनिजनाश्रये तत्तैः,
सम्बन्धः समजायत ।।२१।।
रत्नपरीक्षकाः 'पूज्या,
अजानन्शक्तिभावने । संयमशिल्पिनस्तस्य,
तैर्गृहीतश्च तत्करः ।।२२।।
ब्रह्मचर्यं ततस्तेन,
प्रतिपन्नं विरागिणा। जाता चेतसि दीक्षेच्छा,
प्रबला तस्य भाविते ।।२३।। १. पूज्या: = उपाध्याय-श्रीप्रेमविजय-गणिवराः । एवमग्रेऽपि ज्ञेयम् ।