________________
समतामहोदधिः महाकाव्यम्
गृहीतं धार्मिकं तेन,
सहेतरेण शिक्षणम् । कर्मग्रन्थौ स तत्रैवं,
यावदाद्यावधीतवान् ।।१६।।
स्वच्छन्दचारिताऽभाव
स्तत्रासीदपि यौवने । . तस्याऽऽजन्मविरक्तस्य,
सुकरं ब्रह्मपालनम् ।।१७।।
अभ्यासानन्तरं तेन
व्यवसायः कृतो वरः । पालनाय कुटुम्बस्य,
सोद्यमेन विवेकिना ।।१८।।
तदानीं वाचकप्रेमा,
ग्लानसेवनतत्पराः । . प्रभूतगुणसम्पन्ना,
वैयावृत्त्याय रोगिणः ।।१९।। १. इतरेण = व्यावहारिकशिक्षणेन ।