________________
_समतामहोदधिः महाकाव्यम्
तेभ्यश्चात्र द्वितीयस्य,
पुत्रस्योग्रपराक्रमः । वर्ण्यते वैरिकारि
योधस्य व्रतशालिनः ।।१२।।
भूरिराषाढशुक्लायां,
नवम्यां सुषुवे सुतम् । ग्रहद्रव्यग्रहैकाऽब्दे,
वैक्रमे पद्मसन्निभम् ।।१३।।
पोपटस्तस्य नामेति,
पितृभ्यां स्थापितं शुभम् । हृदयं तस्य धर्मेण,
गुणैश्चासीत्सुवासितम् ।।१४।।
अध्ययनकृते वर्षे,
सोऽष्टमे प्रेषितस्तदा । पितृभ्यां पाठशालायां,
श्राद्धमनसुखस्य तु ।।१५।।