________________
समतामहोदधिः महाकाव्यम्
प्रथमं तत्र पार्थस्य,
द्वितीयं सम्भवस्य च । अजितस्य जिनेशस्य,
तृतीयं जिनमन्दिरम् ।।८॥
सम्भवजिनचैत्यस्य,
समीपे न्यवसत्तदा । चिमनो नामतः श्राद्धः
प्रभुभक्तः क्रियारतः ॥९॥
तस्याऽऽसीद्धर्मपत्निस्तु,
भूरिरिति सुशीलभाक् । अभिप्रव्रजिता यस्या
स्त्रयः सुतास्तथा सुता ।।१०।।
सूरित्वं प्रथमः प्राप्तः,
पंन्यासत्वं तथाऽपरः । श्रमणत्वं तृतीयस्तु,
सुश्रमणीत्वमन्तिमा ।।११।।