________________
३
-
समतामहोदधिः महाकाव्यम्
अस्ति भारतदेशेषु,
श्रीगुजरातनामकम् । पूतं प्राचीनसंस्कृत्या,
राज्यं धर्मेण वासितम् ।।४।।
राजनगरमित्यासी
द्राजधान्यस्य सुन्दरा । कर्णावतीति विख्यातं,
जैननगरमित्यपि ।।५।।
विस्तृतो जैनधर्मोऽत्र,
तीर्थभूमिरिदं तथा । अनेक जिनचैत्यानि,
तत्र शोभां तु बिभ्रति ।।६।।
रत्नत्रयीसमा चैत्य
त्रयी तत्र विराजते । प्रतोल्यां कालुशीनाम्न्यां,
परमपददायिनी ॥७॥