________________
३४३
_ समतामहोदधिः महाकाव्यम्
जनमुखारविन्देभ्य,
उद्गारा निःसृता इति । धन्याः श्रीगुरुदेवास्त,
उत्तमोत्तमसाधकाः ॥६५॥
तदीयगुणपुष्पाणि,
स्वजीवनवने समे । आरोप्याऽध्यात्मनो गन्ध
मनुभवन्तु सर्वदा ॥६६॥
वैराग्यसागर-जिनेवरभक्तिदक्ष
हेमेन्दुसूरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्रकाव्ये,
पद्मं जिनस्य कृपया दशमं समाप्तम् ।।६७।।
१. समे = सर्वे, जना इत्यध्याहार्यम् ।