________________
३३९.
समतामहोदधिः महाकाव्यम्
श्रेष्ठिनाऽचलदासेन,
पुण्यप्राग्भारशालिना । भक्तीरितहृदा दत्ता,
वह्निसंस्कारमेदिनी ।।५७॥
तत्र समागता यात्रा,
पूर्धमणादनन्तरम् । दत्तवन्तोऽञ्जलिं भव्यां,
तेभ्यः सर्वे जना अपि ।।५८ ।।
चन्दनस्य शुभैः काष्ठै,
रचितायां चितौ शुचौ । शिबिका स्थापिता तेषां,
सह मङ्गलघोषणैः ।।५९।।
श्राद्धेन बाबुलालेन,
सुलब्धो वह्निसंस्कृतः । लाभ उत्सर्पणीपूर्वं,
दुःखेन तेन सां कृता ।।६।। १. पूर्धमणात् = पूरि भ्रमणमिति पूर्धमणम्, तस्मादिति पूर्धमणात् । २. उत्सर्पणी = 'उछामणी' इति भाषायाम् । ३. सा = वह्निसंस्कृतिः ।