________________
३३७ -
समतामहोदधिः महाकाव्यम
सर्वजनैरुदासीनैः,
पिहितान्यापणानि च । ते तेषामन्वमोदन्त,
भव्यं चारित्रजीवनम् ।।५३।।
पूज्यैर्युत्सृज्य सङ्घाय,
तेषां देहः समर्पितः । स्नानानुलेपवस्त्राद्यैः
सधेनाऽपि स भूषितः ।।५४।।
शिबिकायां तु वस्त्राद्यै
भूषितायां शुभैस्तनुः । सङ्घन स्थापिता तेषां, .
मङ्गलनादपूर्वकम् ।।५५॥
सर्वत्र पुष्पधूपानां,
प्रासरत्सुरभिस्तदा । नादैर्विविधतुर्याणां,
यात्रा च निर्गताऽन्तिमा ।।५६।।