________________
अथ समतामहोदधिः
महाकाव्यम् (पंन्यासप्रवर-श्रीपद्मविजयानां जीवनचरितम् ।)
प्रथमं पद्मम् नत्वा स्तम्भनपार्धेशं,
विधाय गुरुवन्दनम् । श्रुतदेवीं तथा स्मृत्वा,
वचोऽनुसृत्य सद्गुरोः ।।१।।
पद्मविजयपंन्यास
वराणामतिसात्त्विकम् । चरितं कीर्तयिष्यामि,
जगतः प्रेरणाकृते ।।२।।।। युग्मम्।।
अत्राऽहमतिमन्दोऽपि,
प्रयते कृपया गुरोः । यष्ट्याधारेण पगुः किं,
नाप्नोति स्थानमीप्सितम् ।।३।।